Table of Contents

<<4-4-72 —- 4-4-74>>

4-4-73 निकटे वसति

प्रथमावृत्तिः

TBD.

काशिका

निकटशाब्दात् सप्तमीस्मर्थात् वसति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। यस्य शास्त्रतो निकटवासस् तत्र अयं विधिः। आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यम् इति शास्त्रम्। निकटे वसति नैकटिको भिक्षुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1132

बालमनोरमा

1604 निकटे वसति। अस्मिन्नर्थे सप्तम्यन्तातन्निकटशब्दाट्ठगित्यर्थः। नैकटिको भिक्षुरिति। ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः। अत्र व्याख्यानमेव शरणम्।

तत्त्वबोधिनी

1234 नैकटिको भिक्षुरिति। सन्यासी हिल ग्रामस्य निकटे वसन्भिक्षार्थमेव ग्रामे प्रविशति, न तु तत्र वसतीति भावः।

Satishji's सूत्र-सूचिः

TBD.