Table of Contents

<<4-4-71 —- 4-4-73>>

4-4-72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे। व्यवहारः क्रियातत्त्वम् यथा लौकिकव्यवहारः इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1603 कठिनान्तप्रस्तार। अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः। वंशकठिनशब्दं विवृणोति–वंशा इति। व्यवहरणम्- उचितक्रिया। तदाह–यस्मिन्देशे इति। प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ।

तत्त्वबोधिनी

1233 कठिनान्त। प्रस्तारसंस्थानशब्दौ सन्निवेशपर्यायाविति बहवः। प्रस्तारो यज्ञः। `प्रे स्त्रोऽयज्ञे'इति घञ्। संस्थानं संनिवेश इत्येके।

Satishji's सूत्र-सूचिः

TBD.