Table of Contents

<<4-4-71 —- 4-4-73>>

4-4-72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे। व्यवहारः क्रियातत्त्वम् यथा लौकिकव्यवहारः इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1603 कठिनान्तप्रस्तार। अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः। वंशकठिनशब्दं विवृणोति–वंशा इति। व्यवहरणम्- उचितक्रिया। तदाह–यस्मिन्देशे इति। प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ।

तत्त्वबोधिनी

1233 कठिनान्त। प्रस्तारसंस्थानशब्दौ सन्निवेशपर्यायाविति बहवः। प्रस्तारो यज्ञः। `प्रे स्त्रोऽयज्ञे'इति घञ्। संस्थानं संनिवेश इत्येके।

Satishji's सूत्र-सूचिः

TBD.