Table of Contents

<<4-4-70 —- 4-4-72>>

4-4-71 अध्यायिन्यदेशकालात्

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। सप्तमीसमर्थाददेशवाचिनः परतिपदिकादकालवाचिनः च अध्यायिन्यभिधेये ठक् प्रत्ययो भवति। अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकालशब्देन उच्येते, तत इदं प्रत्ययविधानम्। श्माशाने ऽधीते श्माशानिकः। चातुष्पथिकः। अकालात् चतुरदश्यमधीते चातुर्दशिकः। आमावास्यिकः। अदेशकालातिति किम्? स्रुघ्ने ऽधीते। पूर्वाह्णे ऽधीते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1602 अध्यायिन्यदेशकालात्। निषिद्धेति। `अदेशकाले'त्यत्र नञ् निषिद्धे वर्तत इति भावः। श्माशानिकः चातुर्दशिक इति। देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः।

तत्त्वबोधिनी

1232 अध्ययिन्य। अदेशकालात् किम्?। काश्यामधीते। पूर्वाह्णे अधीते।

Satishji's सूत्र-सूचिः

TBD.