Table of Contents

<<4-4-6 —- 4-4-8>>

4-4-7 नौद्व्यचष् ठन्

प्रथमावृत्तिः

TBD.

काशिका

नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो ह्बवति तरति इत्येतस्मिनर्थे। ठको ऽपवादः। नावा तरति नाविकः। द्व्यचः खल्वपि घटिकः। प्लविकः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री। आकर्षात् पर्पादेर् भस्त्रादिभ्यः कुसीदसूत्राच् च। आवसथात् किशरादेः षितः षडेते ठगधिकारे। विधिवाक्यापेक्षं च षट्त्वं, प्रत्ययास् तु सप्त।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1534 नोद्व्यचष्ठन्। `ठ'निति च्छेदः। ष्टुत्वकृतः सस्य षकारः। तरतीत्यर्थे नौशब्दात् द्व्यचश्च तृतीयान्ताट्ठनित्यर्थः। नाविक इति। नावा तरतीत्यर्थः। घटिक इति। घटेन तरतीत्यर्थः। बाहुका स्त्रीति। उकः परत्वाट्ठस्य कः। अदन्तत्वाट्टाप्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.