Table of Contents

<<4-4-64 —- 4-4-66>>

4-4-65 हितं भक्षाः

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत्प्रथमासमर्थं हितं चेत् तद् भवति, तच् च भक्षाः। ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते? एवं तर्हि सामर्थ्याद् विभक्तिविपरिणामो भविष्यति। अपूपभक्षणं हितम् अस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। हितार्थक्रिया च तद्धितवृतावन्तर्भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1596 हितं भक्षाः। तदस्येत्यनुवृत्तम्। तत्र षष्ठी चतुथ्र्याविपरिणम्यते, हितयोगात्। तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात्, यद्धितं भक्षाश्चेत्ते स्युरित्यर्थः। संस्कृतं भक्षा इति वद्व्याख्येयम्। अपूपभक्षणमिति। अनेन अपूपशब्दोऽपूपभक्षणे लाक्षणिक इति सूचितम्। अपूपो हितमित्यर्थे तु न ठक्, अभिधानस्वाभाव्यादिति भावः।

तत्त्वबोधिनी

1229 हितं भक्षाः। `अस्ये'ति प्रकृतमपीह हितयोगाच्चतुथ्र्या विपरिणम्यते, `तदस्मै'इत्यस्यापकर्षो वेत्याशयेनाह—अपूपभक्षणं हितमस्मा इति। अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः।

Satishji's सूत्र-सूचिः

TBD.