Table of Contents

<<4-4-63 —- 4-4-65>>

4-4-64 बह्वच्पूर्वपदाट् ठच्

प्रथमावृत्तिः

TBD.

काशिका

बह्वच् पूर्वपदं यस्य तस्माद् बह्वच्पूर्वपदात् प्रातिपदिकात् ठच् प्रत्ययो भवति तदस्य कर्माध्ययने वृत्तम् इत्येतस्मिन्नर्थे ठको ऽपवादः। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः। त्रयोदशान्यिकः। चतुर्दशान्यिकः। चतुर्दशापपाठा अस्य जाता इत्यर्थः। उदात्ते कर्तव्ये यो ऽनुदात्तं करोति स उच्यते अन्यत् त्वं करोषि इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1594 बह्वच्पूर्वपदाट्ठच्। `तदस्य कर्माध्ययने वृत्त'मित्यनुवर्तते। तदाह– प्राग्विषये इति। द्वादशान्यिक इति। `तद्धितार्थ' इति समासः। एवं त्रयोदशान्यिकः चित्त्वान्नादिवृद्धिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.