Table of Contents

<<4-4-62 —- 4-4-64>>

4-4-63 कर्माध्ययने वृत्तम्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत्प्रथमास्मर्थं कर्म चेत् तद् वृत्तम् अध्ययनविषयं भवति। एकमन्यदध्ययने कर्म वृत्तम् अस्य ऐकान्यिकः। द्वैयन्यिकः। त्रैयन्यिकः। एकमन्यतिति विगृह्य तद्धितार्थ इति समासः। ततश्च ठक् प्रत्ययः। अध्ययने कर्म वृत्तम् इत्येतत् सर्वं तद्धितवृत्तावन्तर्भवति। यस्य अध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितम् अपपाठरूपम् एकं जातं स उच्यते ऐकान्यिकः इति। एवं द्वैयन्यिकः त्रैयन्यिक इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1593 कर्माध्ययने वृत्तम्। `तदस्य पण्य'मित्यतस्तदस्येत्यनुवर्तते। `तदस्य कर्माध्ययने वृत्त'मित्यर्थनिर्देशः। तत्र `त'दित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति। कर्मशब्दः क्रियापरः। वृत्तमित्यस्य जातमित्यर्थः। वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोच्चारितम्। ततश्च स्य अध्ययनविषये `तत्कर्म वृत्त'मित्यर्थे तच्छब्दगम्यविशेष्यवाचकात्प्रथमान्ताट्ठक् स्यादित्यर्थः। तदाह– प्रथमान्तादिति। `वृत्तं कर्म प्रति विशेष्यसमर्पका' दिति शेषः। अध्ययने वृत्तेति। विषयसप्तम्येषा। या क्रियेति। अनेन कर्मशब्दः क्रियापर इति सूचितम्। प्रथमान्तस्यार्थ इति। `अनेन कर्म वृत्त'मित्येतत्तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम्। तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रतमानिर्दिष्टत्वात्तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमानिर्दिष्टत्वाऽभावादित्यभिप्रेत्योदाहरति–एतमन्यद्वृत्तमस्य ऐकान्यिक इति। `तद्धितार्थ' इति समासे एकान्यशब्दाट्ठहगिति भावः। द्वैयन्यिकः, त्रैयन्यिकः। ऐजागमो विशेषः।

तत्त्वबोधिनी

1228 कर्माध्ययने। `तदस्ये'त्यनुवर्तते, ठगिहाधिक्रियत। एव तदाह— प्रथमान्तादित्यादि। ऐकान्यिक इति। एकमन्यदिति विगृह्र`तद्धितार्था 'इति समासः, ततष्ठक्। एवं द्वैयन्यिकः त्रैयन्यिक इत्युदाहार्यम्। इह तु वृदिं?ध बाधित्वा `न ध्वाभ्या' मित्यैच्।

Satishji's सूत्र-सूचिः

TBD.