Table of Contents

<<4-4-61 —- 4-4-63>>

4-4-62 छत्रादिभ्यो णः

प्रथमावृत्तिः

TBD.

काशिका

छत्र इत्येवम् आदिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलम् इत्येतस्मिन् विषये। ठको ऽपवादः। छत्रं शीलम् अस्य छात्रः। छादनादावरणाच् छत्रम्। गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः। स्थाशब्दो ऽत्र पठ्यते, स उपसर्गपूर्वो ऽत्र गृह्यते आस्था संस्था अवस्था इति। छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1591 छत्रादिभ्यो णः। एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः। छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह–गुरोरिति। शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते-।

तत्त्वबोधिनी

1227 छत्रादिभ्यो णः। `छत्रादिभ्योऽ'णित्येव सुवचमिति `कार्मस्ताच्छील्ये'इति सूत्रे कैयटः। ताच्छील्ये णे इति। कर्मन्शब्दस्य छत्रादित्वादिति भावः। चौरीत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्ङीप् सिद्ध्यतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.