Table of Contents

<<4-4-60 —- 4-4-62>>

4-4-61 शीलं

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ट्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शीलं चेद् तद् भवति। शीलं स्वभावः। अपूपभक्षणं शीलम् अस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1131 अपूपभक्षणं शीलमस्य आपूपिकः..

बालमनोरमा

1590 शीलम्। अस्येत्यर्थे शीलवाचिनः प्रथमान्ताट्ठगित्यर्थः। शीलं=स्वभावः। अपूपभक्षणमिति। अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.