Table of Contents

<<4-4-56 —- 4-4-58>>

4-4-57 प्रहरणम्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत्तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणम् अस्य आसिकः। प्रासिकः। चाक्रिकः धानुष्कः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1130 तदस्येत्येव. असिः प्रहरणमस्य आसिकः. धानुष्कः..

बालमनोरमा

1586 प्रहरणम्। `तदस्ये'त्येव। प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः। प्रह्यियतेऽनेनेति प्रहरणम्=आयुधम्। धानुष्क इति। धनुः प्रहरणमस्येति विग्रहः। उसन्तात्परत्वाट्ठस्य कः। `इणः षः' इति षः।

तत्त्वबोधिनी

1224 प्रहरणम्। प्रह्यियते अनेनेति प्रहणमायुधम्। धानुष्क इति। `इसुसुक्तान्तात्कः'। `इणः षः'इति विसर्गस्य षः।

Satishji's सूत्र-सूचिः

TBD.