Table of Contents

<<4-4-54 —- 4-4-56>>

4-4-55 शिल्पम्

प्रथमावृत्तिः

TBD.

काशिका

तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पम् अस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययम् उत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1129 मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः..

बालमनोरमा

1584 शिल्पम्। तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः। क्रियासु कौशलं शिल्पम्। ननु `मार्दङ्गिक' इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात्। तत्राह–मृदङ्गवादनमिति। मृदङ्गवादनविषयकमित्यर्थः। मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः।

तत्त्वबोधिनी

1223 शिल्पं–क्रियाकौशलम्। तच्च मृदङ्गवादनविषयकम्। तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः।

Satishji's सूत्र-सूचिः

TBD.