Table of Contents

<<4-4-53 —- 4-4-55>>

4-4-54 शलालुनो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। पक्षे सो ऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यम् अस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1583 शलालुनोऽन्यतरस्याम्। `ष्ठ'न्निति शेषः। `तदस्य पण्यमित्येव। `शलालुक इति। शलालु पण्यमस्येति विग्रहः। उकः परत्वाट्ठस्य कः। षित्त्वस्य फलमाह–शलालुकीति।

तत्त्वबोधिनी

1222 शलालुक इति। `इसुसुक्तान्तात्कः'। ठक्पक्षे त्वादिवृद्धिः। शालालुकः। मार्दङ्गिक इति। मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते। मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः।

Satishji's सूत्र-सूचिः

TBD.