Table of Contents

<<4-4-52 —- 4-4-54>>

4-4-53 किशरादिभ्यः ष्ठन्

प्रथमावृत्तिः

TBD.

काशिका

किशर इत्येवम् आदिभ्यः ष्ठन् प्रत्ययो तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यम् अस्य किशरिकः। किशरिकी। निरदिकः। नरदिकी। किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1582 किसरादिभ्यः ष्ठन्। तदस्य पण्यमित्येव। `ष्ठ'न्निति च्छेदः। तदाह– षित्त्लान्ङीषिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.