Table of Contents

<<4-4-50 —- 4-4-52>>

4-4-51 तदस्य पण्यम्

प्रथमावृत्तिः

TBD.

काशिका

तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत् तद् भवति। अपूपाः पण्यम् अस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। पण्यम् इति विशेषनं तद्धितवृत्तावन्तर्भूतम् अतः पण्यशब्दो न प्रयुज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1580 तदस्य पण्यम्। अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः। विक्रेतव्यं द्रव्यं- पण्यम्। लवणाट्ठञ्। `तदस्य पण्य'मित्येव।

तत्त्वबोधिनी

1221 पण्यमिति। पणितव्येऽर्थे `अवद्यपण्ये'ति यदन्तो निपातितः।

Satishji's सूत्र-सूचिः

TBD.