Table of Contents

<<4-4-49 —- 4-4-51>>

4-4-50 अवक्रयः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इत्येव। षष्ठीसमर्थातवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणिते ऽनेन इति अवक्रयः पिण्डकः उच्यते। शुल्कशालायाः अवक्रयः औल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। ननु अवक्रयो ऽपि धर्म्यम् एव? न एतदस्ति। लोकपीडया धर्मतिक्रमेण अप्यवक्रयो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1579 अवक्रयः। तस्येत्यनुवर्तते। तदाह–षष्ठ\उfffद्न्तादिति।

तत्त्वबोधिनी

1220 अवक्रयः। अवक्रीयते अनेनेति करणे `एरच्'।

Satishji's सूत्र-सूचिः

TBD.