Table of Contents

<<4-4-45 —- 4-4-47>>

4-4-46 संज्ञायां ललाटकुक्कुट्यौ पश्यति

प्रथमावृत्तिः

TBD.

काशिका

ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणम् अभिधेयनियमार्थं, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु न उपतिष्ठते इत्यर्थः। कुक्कुटीशब्देन अपि कुक्कुटीपातो लक्ष्यते। देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1575 संज्ञायाम्। ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः। संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः। लालाटिकः शेवक इति। दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः। `लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः' इत्यमरः। कौक्कुटिक इति। कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः।

तत्त्वबोधिनी

1218 संज्ञायाम्। ललाटकुक्कुटीशब्दाभ्यां द्वितीया। ताभ्यां पश्यतीत्यर्थे ठक्स्यात्। सम्यग्ज्ञानं संज्ञा=प्रसिद्धिः, तस्याम्। प्रसिद्धिविषयभूतेऽर्थं इत्यर्थः। लालाटिक इति। दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः। `लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः'। कौक्कुटिको भिक्षुरिति। संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छतीति भावः।

Satishji's सूत्र-सूचिः

TBD.