Table of Contents

<<4-4-44 —- 4-4-46>>

4-4-45 सेनाया वा

प्रथमावृत्तिः

TBD.

काशिका

सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे। ठको ऽपवादः। पक्षे सो ऽपि भवति। सेनां समवैति सैन्यः, सैनिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1574 सेनाया वा। ण्यः स्यादिति। शेषपूरणमिदम्। द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः। सैन्याः सैनिका इति। सेनां मेलयन्तीत्यर्थः।

तत्त्वबोधिनी

1217 सैन्याः सैनिका इति। द्वितीयान्ताण्ण्यठकौ। यत्तु `सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते'इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.