Table of Contents

<<4-4-44 —- 4-4-46>>

4-4-45 सेनाया वा

प्रथमावृत्तिः

TBD.

काशिका

सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे। ठको ऽपवादः। पक्षे सो ऽपि भवति। सेनां समवैति सैन्यः, सैनिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1574 सेनाया वा। ण्यः स्यादिति। शेषपूरणमिदम्। द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः। सैन्याः सैनिका इति। सेनां मेलयन्तीत्यर्थः।

तत्त्वबोधिनी

1217 सैन्याः सैनिका इति। द्वितीयान्ताण्ण्यठकौ। यत्तु `सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते'इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.