Table of Contents

<<4-4-41 —- 4-4-43>>

4-4-42 प्रतिपथम् एति ठंश् च

प्रथमावृत्तिः

TBD.

काशिका

प्रतिपथशब्दाद् द्वितीयासमर्थादेति इत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट् ठक् च। प्रतिपथम् एति प्रतिपथिकः, प्रातिपथिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1571 प्रतिपथमेति ठंश्च। प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः। प्रतिपथमिति। `लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। `ऋक्पूः' इति समासान्तः।

तत्त्वबोधिनी

1215 प्रतिपथमिति। वीप्सयामाभिमुख्ये वाऽव्ययीभावः। `ऋक्पू'रिति समासान्तः।

Satishji's सूत्र-सूचिः

TBD.