Table of Contents

<<4-4-42 —- 4-4-44>>

4-4-43 समवायान् समवैति

प्रथमावृत्तिः

TBD.

काशिका

समवायावाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूहः उच्यते, न संप्रधारणा। समवायानिति बहुवचनं सरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशी भवति इत्यर्थः। समवायान् समवैति सामवायिकः। सामाजिकः। सामूहिकः। सान्निवेशिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1572 समवायान्समवैति। द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः। बहुवचनात्तदर्थवाचिशब्दग्रहणम्। समवैति=मेलयतीत्यर्थः।

तत्त्वबोधिनी

1216 समवायान्। समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे। इह समवपूर्वस्येणोऽर्थः प्राविश्यैकदेशीभवनम्। तत्र गुणभूतप्रवेशाऽपेक्षया समवायानिति द्वितीयानिर्देशः। विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते— `कुरुक्षेत्रे समवेताः'इति यथा। `एत्येधती'ति वृद्धिरिह न भवति, एजादित्वाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.