Table of Contents

<<4-4-40 —- 4-4-42>>

4-4-41 धर्मं चरति

प्रथमावृत्तिः

TBD.

काशिका

धर्मशब्दात् तदिति द्वितीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेबायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः। अधर्माच् च इति वक्तव्यम्। आधर्मिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1128 धार्मिकः (अधर्माच्चेति वक्तव्यम्). आधर्मिकः..

बालमनोरमा

1570 धर्मं चरति। चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः। \र्\नधर्माच्चेतीति। `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती'ति तदन्ताऽग्रहणादप्राप्ते आरम्भः।

तत्त्वबोधिनी

1214 धर्म चरति। चरतिरिहाऽऽसेवायां, न त्वनुष्ठानमात्रे। तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते। आसेवा हि स्वारसिकि प्रवृत्तिः। एवं दैववशादधर्मे प्रवृत्तो यः सद्वृत्तः स आधर्मिक इति नोच्यते।

Satishji's सूत्र-सूचिः

TBD.