Table of Contents

<<4-4-39 —- 4-4-41>>

4-4-40 प्रतिकण्ठार्थललामं च

प्रथमावृत्तिः

TBD.

काशिका

प्रतिकण्ठार्थललामशब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1569 प्रतिकण्ठार्थ। एभ्य इति। प्रतिकण्ठ, अर्थ, ललाम–इत्येभ्य इत्यर्थः। आर्थिक इति। अर्थं गृह्णातीत्यर्थः। लालामिक इति। ललामं=चिह्नं, तद्गृह्णातीत्यर्थः। `लिङ्गं ललामं च ललाम चे'त्यमरः।

तत्त्वबोधिनी

1213 प्रतिकण्ठमिति। कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः, `लक्षणेनाभिप्रती आभिमुख्ये'इत्यनेन वा। यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः।

Satishji's सूत्र-सूचिः

TBD.