Table of Contents

<<4-4-37 —- 4-4-39>>

4-4-38 आक्रन्दाट् ठञ् च

प्रथमावृत्तिः

TBD.

काशिका

आक्रन्दन्ति एतस्मिन् नित्याक्रन्दो देशः। अथ वा आक्रन्द्यते इत्याक्रन्दः आर्तायनम् उच्यते। विशेषाभावाद् द्वयोरपि ग्रहणम्। आक्रन्दशब्दात् तदिति द्वितीयासमर्थाद् धावति इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकाराट् ठक् च। स्वरे विशेषः। आक्रन्दं धावति आक्रन्दिकः। आक्रन्दिकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1567 आक्रन्दाट्ठञ्च। अस्मादिति। आक्रन्दशब्दाद्द्वितीयान्तादित्यर्थः। आकन्दन्ति। अस्मिन्नत्याक्रन्दः। तदाह–रोदनस्थानमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.