Table of Contents

<<4-4-36 —- 4-4-38>>

4-4-37 माथौत्तरपदपदव्यनुपदं धावति

प्रथमावृत्तिः

TBD.

काशिका

माथशब्दौत्तरपदात् प्रातिपैकात् पदवी अनुपद इत्येताभ्यां च धावति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दण्डमाथं धावति दाण्डमाथिकः। शौल्कमाथिकः। पादविकः। आनुपदिकः। मथशब्दः पथिपर्यायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1566 माथोत्तर। मथोत्तरपद, पदवी, अनुपद–एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः। माथपदं व्याचष्टे–माथः पन्था इति। मथ्यते गन्तृभिराहन्यते #इति व्युत्पत्तेरिति भावः। दण्डमाथ इति। शाकपार्थिवादिः। पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सक्रमकत्वम्। पादविक इति। पदवीं धावतीति विग्रहः। आनुपदिक इति। अनुपदं धावतीति विग्रहः।

तत्त्वबोधिनी

1212 माथ इति। मथ्यते गन्तृभिरिति माथः। `मते विलोडने'। कर्मणि घञ्। पदोत्तरपदं। पदशब्द उत्तरपदं यस्य तत्पदोत्तरपदम्। `पदान्त'मिति तु नोक्तम्, बहुच्पूर्वान्मा भूदिति।

Satishji's सूत्र-सूचिः

TBD.