Table of Contents

<<4-4-35 —- 4-4-37>>

4-4-36 परिपन्थं च तिष्ठति

प्रथमावृत्तिः

TBD.

काशिका

परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर् द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायः परिपन्थशब्दो ऽस्ति इति ज्ञापयति। स विषयान्तरे ऽपि प्रयोक्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1565 परिपन्थं च तिष्ठति। अस्मादिति। परिपन्थशब्दादित्यर्थः। चकाराद्धन्तीत्यनुकृष्यते। तदाह–तिष्ठति हन्ति चेति। पन्थानं वर्जयित्वेति। एतेन `अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वे `पञ्चम्यपाङ्परिभि'रिति पञ्चम्याम् `अपपरिबहिरञ्चवः पञ्चम्ये'ति अव्ययीभावसमासः सुचितः। व्याप्त वेति। एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम्। अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम्। उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम्। इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति–परिपन्थं तिष्ठतीति।

तत्त्वबोधिनी

1211 परिपन्थं च। परिमुखवदयमव्ययीभावस्तत्पुरुषो वा। क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह— द्वितीयान्तादिति। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोतीत्याह—तिष्ठति हन्ति चेति।

Satishji's सूत्र-सूचिः

TBD.