Table of Contents

<<4-4-33 —- 4-4-35>>

4-4-34 शब्ददर्दुरं करोति

प्रथमावृत्तिः

TBD.

काशिका

तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कुम्भकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1127 शब्दं करोति शाब्दिकः. दर्दुरं करोति दार्दुरिकः..

बालमनोरमा

1563 शब्ददर्दुरं करोति। शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः। इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात्। तेनेह न–शब्दं करोति खरः। दार्दुरिक इति। `दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः। दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर'मिति वि\उfffदाः। इह यथायोग्यमन्वयः।

तत्त्वबोधिनी

1210 शब्दं करोतीति। प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः। अभिधानस्वाभाव्याद्व्युत्पादन एवायं प्रत्ययः। नेह—शब्दं करोति बर्बरः खरो वा। दार्दुरिक इति। कुलाल इत्यर्थः। वाद्यभाण्डवाचीह दर्दुरशब्दः। पर्यायाणां विशेषाणां च ग्रहणम्। मात्स्यिक इति। `मत्स्यस्य ङ्या 'मिति परिगणनात् `सूर्यतिष्ये'ति यलोपाऽभावः। हारिणिक इति। नन्विदं पर्यायस्योदाहरणं न भवति, हरिणस्य मृगविशेषंत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत्। अत्राहुः—-आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते। यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति।

Satishji's सूत्र-सूचिः

TBD.