Table of Contents

<<4-4-2 —- 4-4-4>>

4-4-3 संस्कृतम्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतम् दाधिकम्। शार्ङ्गवेरिकम्। मारीचिकम्। योगविभाग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1121 दध्ना संस्कृतम् दाधिकम्. मारीचिकम्..

बालमनोरमा

1530 संस्कृतम्। तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः। `सस्कृतं भक्षाः' इत्यत्र तु सप्तम्यन्तादणादि विधिः। मारीचिकमिति। मरीचिभिः संस्कृतमित्यर्थः।

तत्त्वबोधिनी

1191 संस्कृतम्। योग विभाग उत्तरार्थःष। बाहुकेति। सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष्। तथा च `आकर्षात्पर्पादेः' इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति। निकषोपल इति। सुवर्णपरीक्षार्थः।

Satishji's सूत्र-सूचिः

TBD.