Table of Contents

<<4-4-1 —- 4-4-3>>

4-4-2 तेन दीव्यति खनति जयति जितम्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थाद् दीव्यति खनति जयति जितम् इत्येतेष्वर्थेषु ठक् प्रत्ययो भवति। अक्षैर् दीव्यति आक्षिकः। शालाकिकः। अभ्र्या खनति आभ्रिकः। कौद्दालिकः। अक्षैर् जयति आक्षिकः। अक्षैर् जितम् आक्षिकम्। शालाकिकम्। सर्वत्र करणे तृतीया समर्थविभक्तिः। देवदत्तेन जितम् इति प्रत्ययो न भवति, अनभिधानात्। अङ्गुल्या खनति इति च। प्रत्ययार्थे सङ्ख्याकालयोरविवक्षा। क्रियाप्रधानत्वे ऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1120 अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः..

बालमनोरमा

1529 तेन दीव्यति। तेन दीव्यति, तेन खनति, तेन जयति, तेन जितमिति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः। पारदारिक इति परदारान्गच्छतीत्यर्थः। अभ्रिः=कुद्दालः। `देवदत्तेन जित'मित्यत्र तु न ठक्, करणतृतीयान्तादेव तद्विधेः।

तत्त्वबोधिनी

1190 तेन दीव्यति। इह कालपुरुषसङ्ख्या न विवक्षिताः, तेनाक्षैरदेवीत् देविष्यति वा आक्षिक इति भवति। एवमक्षैर्देविष्यसि देविष्यामि वा आक्षिकः, दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः। कारकं तु विवक्षितमेव, `जयति, जित'मिति कर्तृकर्मणोः पृथगुपादानात्। तेनाक्षैद्र्यूतः, अक्षैः खात इति कर्माद्यर्थे आक्षिक इति न भवति। अभ्र्येति। `अभ्रिः स्त्री काष्ठकुद्दालः'इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.