Table of Contents

<<4-4-28 —- 4-4-30>>

4-4-29 परिमुखं च

प्रथमावृत्तिः

TBD.

काशिका

परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तते इत्येअस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारो ऽनुक्तसमुच्चयार्थः। पारिपार्श्विकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1558 परिमुखं च। अस्माद्द्वितीयान्ताद्वर्तते। इत्यर्थे ठगित्यर्थः। चादिति। चकारादनुक्तसमुच्चयार्थात् परिपार्\उfffदामित्यस्मादपि ठकि पारिपार्\उfffदिआकः।

तत्त्वबोधिनी

1205 परिमुखमिति। `अपपरी वर्जने'इति परेः कर्मप्रवचनीयसंज्ञायां `पञ्चम्यपाङ्परिभि'रिति पञ्चमी। `अपपरिबहिरञ्चवः पञ्चम्या'इत्यव्ययीभावः। ततष्ठक्। स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स—`पारिमुखिकः'। यदा तु सर्वतोभावे परिशब्दः, प्रादिसमासश्च, तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते। एवं पारिपार्\उfffदिआकोऽप्यर्थद्वये बोध्यः।

Satishji's सूत्र-सूचिः

TBD.