Table of Contents

<<4-4-29 —- 4-4-31>>

4-4-30 प्रयच्छति गर्ह्यम्

प्रथमावृत्तिः

TBD.

काशिका

ततिति द्वितीयासमर्थात् प्रयच्छति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति। द्विगुणार्थ द्विगुणं, तादर्थ्यात् ताच्छब्द्यम्। द्विगुणं प्रयच्छति द्वैगुणिकः। त्रिगुणिकः। वृद्धेर् वृधुशिभावो वक्तव्यः। वार्धुषिकः। प्रकृत्यनतरं वा वृद्धिपर्यायो वृधुषिशब्दः। गर्ह्यम् इति किम्? द्विगुणं प्रयच्छत्यधमर्णः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1559 प्रयच्छति गह्र्रम्। तदिति द्वितीयान्तमनुवर्तते। गर्ह्रं प्रयच्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः। द्विगुणार्थं द्रव्यं द्विगुणमिति। द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः। तत्प्रय्च्छति द्वैगुणिक इति। द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः। `अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः' इत्यादिधर्मशास्त्रविरुद्धत्वादिह गह्र्रमिति भावः। इत्यादेशो वाच्य इत्यर्थः। इकारान्त आदेशः। वार्धुषिक इति। वृद्ध्यर्थं द्रव्यं- वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दाट्ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः। `वृद्ध्याजीवस्तु वार्धुषि'रिति तु प्रमाद एव।

तत्त्वबोधिनी

1206 प्रयच्छति। द्वितीयान्तात्प्रच्छतीत्यर्थे ठक्स्याद्यत्प्रयच्छति गर्ह्रं चेत्तत्। द्विगुणार्थे द्विगुणमिति। तादथ्र्यात्ताच्छब्द्यमिति भावः। बहुवृद्ध्युद्देश्यकदानकर्मतयाऽस्य द्रव्यस्य गह्र्रत्वम्। वृद्धिः। तां प्रयच्छतीति विग्रहः। अथ कथं `वृद्द्याजीवश्च वार्धुषि'रित्यमरः, ठक्सन्नियोगेनैव वृधुषिभावस्वीकारात्। अत्राहुः–निरङ्कुशाः कवय इति। गह्र्रमिति किम्?। द्विगुणं त्रिगुणं वा वृदिं?ध प्रत्यच्छत्यधमर्ण इत्यर्थे `द्वैगुणिक'इत्यादि माभूत्।

Satishji's सूत्र-सूचिः

TBD.