Table of Contents

<<4-4-27 —- 4-4-29>>

4-4-28 तत् प्रत्यनुपूर्वम् ईपलोमकूलम्

प्रथमावृत्तिः

TBD.

काशिका

तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवं पूर्वेभ्यः ईपलोमकूलशब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः? क्रियाविश्षणम् अकर्मकाणाम् अपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1557 तत्प्रत्यनुपूर्व। `त'दिति द्वितीयान्तानुकरणम्। प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः। ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह- -क्रियाविशेषणत्वादिति। इदंच कारकनिरूपणे निरूपितम्। `क्रियाविशेषणानां प्रतमान्तत्वमेवे'ति तु शब्देन्दुशेखरे प्रतीपमिति। प्रतिगता आपो यस्मिन्निति बहुव्रीहिः। `ऋक्पूः' इत्यकारः समासान्तः। द्व्यन्तरूपसर्गेभ्योऽप ई'दिति ईत्त्वम्। अनुगता आपो यस्मिन् तदन्वीपम्। `ऊदनोर्देशे' इत्यूत्त्वं तु न, अदेशत्वात्। प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ। अवयवार्थेषु तु नाभिनिवेष्टव्यम्।

तत्त्वबोधिनी

1204 तत्प्रत्यनु। वृतेरकर्मकत्वात्कथं तस्य द्वितीयान्ते नप्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाह—क्रियाविशेषणत्वादिति। प्रतीपमिति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूः'इत्यकारः समासान्तः। `व्द्यन्तरूपसर्गेभ्यः'इति ईत्वम्। व्युत्पत्तिमात्रमिदम्। प्रतिकूलाऽनुकूलपर्याया हीमे रूढिशब्दः। आन्वीपिक इति। `अन्वीप 'मित्यत्र `ऊदनोर्देशे'इत्युत्वं तु न भवति, अदेशत्वात्।

Satishji's सूत्र-सूचिः

TBD.