Table of Contents

<<4-4-26 —- 4-4-28>>

4-4-27 ओजःसहो ऽम्भसा वर्तते

प्रथमावृत्तिः

TBD.

काशिका

ओजस् सहसम्भसित्येतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1556 ओजःसहो। वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस्–एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः। औजसिक इति। ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः। साहसिक इति। सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः। आम्भसिक इति। अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.