Table of Contents

<<4-4-25 —- 4-4-27>>

4-4-26 व्यञ्जनैरुपसिक्ते

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैः इति किम्? उदकेन उपसिक्त ओदनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1555 व्यञ्डनैरुपसिक्ते। उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः। सेचनेन मृदूकरणमुपसेकः। संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम्–`व्यञ्जनवाचिभ्य उपसिक्त एवे'ति। तेनेह न, सूत्रेन संसृष्टा स्थाली।

तत्त्वबोधिनी

1203 व्यञ्जनैरुप। व्यज्यते अनेन ओदनादिरस इति व्यञ्जनां, तद्वाचिभ्य उपसक्ति इत्यर्थे ठक्स्यात्।

Satishji's सूत्र-सूचिः

TBD.