Table of Contents

<<4-4-20 —- 4-4-22>>

4-4-21 अपमित्ययाचिताभ्यां कक् कनौ

प्रथमावृत्तिः

TBD.

काशिका

निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक् कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1550 अपमित्ययाचिताभ्याम्। ल्यबन्धमिति। `मेङ् प्रणिदाने' इत्यस्यमादिं?वनिमयार्थकात् `उदीचां माहो व्यतिहारे' इति क्त्वाप्रत्यये गतिसमासे ल्यपि `मयतेरिदन्यतरस्या'मिति इत्त्वे `ह्यस्वस्य पिती'ति तुगागमे अपमित्येत्यव्ययम्, `क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः। निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः। अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः। अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते।

तत्त्वबोधिनी

1202 अपमित्येति। `उदीचां माङः'इति क्त्वाप्रत्यनेन सह गतिसमासः। क्त्वो ल्यप्। `मयतेरिदन्यतरस्या'मिति इत्त्वम्। `ह्यस्वस्ये'ति तुक्। ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किन्तु वचनात्प्रथमान्तादेव।

Satishji's सूत्र-सूचिः

TBD.