Table of Contents

<<4-4-15 —- 4-4-17>>

4-4-16 भस्त्रादिभ्यः ष्ठन्

प्रथमावृत्तिः

TBD.

काशिका

भस्त्रा इत्येवम् आदिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी। भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1545 भस्त्रादिभ्यः ष्ठन्। `ष्ठ'निति छेदः। हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः। षित्त्वादिति। `ङी'षिति शेषः।

तत्त्वबोधिनी

1199 भस्त्रदिभ्यः ष्ठन्। भस्त्रा चर्मबिकारः।`शीर्षेभार'शब्दोऽत्र पट\उfffद्ते। निपातनाच्छीर्षभावः। सप्तमीसमाश्च, तत्पुरुषे कृती'ति वा अलुक्। पक्षे `शीर्षभारः'।

Satishji's सूत्र-सूचिः

TBD.