Table of Contents

<<4-4-16 —- 4-4-18>>

4-4-17 विभाषा विवधवीवधात्

प्रथमावृत्तिः

TBD.

काशिका

हरति इत्येव। विवधवीवधशब्दाभ्याम् तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतः ठग् भवति। विवधेन हरति विवधिकः। विवधिकी। वीवधिकः। विवधिकी। ठक् खल्वपि वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1546 विभाषा विवधात्। `हरतीत्यर्थे तृतीयान्तात् ष्ठ'निति शेषः।

तत्त्वबोधिनी

1200 एकदेशविकृतस्येति। `वीवधाच्चेति वक्तव्य'मिति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः। वृत्तिकृत्तु सूत्रे वीवशब्दं प्रक्षिप्य `विभाषा विवधवीवधा'दिति पपाठ।

Satishji's सूत्र-सूचिः

TBD.