Table of Contents

<<4-4-14 —- 4-4-16>>

4-4-15 हरत्युत्सङ्गाऽदिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। उत्सङ्गादिभ्यस् तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर् देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः। उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1544 हरत्युत्सङ्गादिभ्यः। हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः।

तत्त्वबोधिनी

1198 हरत्युत्सङ्गादिभ्यः। एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे। उत्सङ्ग , उडुप, उत्थित, पिटक, पिटाक।

Satishji's सूत्र-सूचिः

TBD.