Table of Contents

<<4-4-108 —- 4-4-110>>

4-4-109 सोदराद् यः

प्रथमावृत्तिः

TBD.

काशिका

सोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येत्स्मिन्नर्थे यः प्रत्ययो भवति। विभाषोदरे 6-3-88। इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः। समानोदरे शयितः सोदर्यः भ्राता। ओ च उदात्तः इति न अनुवर्तते। यकारे स्वरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

89 सोदराद्यः। `सप्तम्यन्ताच्छयित इत्यर्थे' इति शेषः। तित्त्वाऽभावात्प्रत्ययस्वेरणान्तोदात्तोऽयम्। `विभाषोदरे'इति सभावः। `अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चती'त्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ `वोपसर्जनस्ये'ति सभावो बोध्यः। एवं `यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धम्।

प्राग्घितीयाः।* प्रकृतिभावः**

तत्त्वबोधिनी

1483 सोदराद्यः। `ओ चोदात्तः'इति नानुवर्तते। `विभाषेदरे'इति समानस्य सभावः। तत्र `तीर्थे ये'इत्यतोऽनुवृत्तं `ये इत्येतद्विषयसप्तमी। तेन सोदर इत्यस्माद्यः। प्रत्ययस्वरः। प्राग्वदीति। समानोदारे शयित इत्येवार्थ इत्यर्थः। कथं तर्हि `अपनेथानं तु गच्छन्तं सोदरोऽपि विमुञ्चती'ति मुरारिरिति चेत्। अत्राहुः—- सह=समानमुदरं यस्य सोदरः। `वोपसर्जनस्ये'ति सहस्य सभावः। तस्य च वैकल्पिकत्वात् `यत्र भ्राता सहोदरः'इत्याद्यपि सिद्धमिति। \र्\निति तत्वबोधिन्यां प्राग्घितीयाः।

Satishji's सूत्र-सूचिः

TBD.