Table of Contents

<<4-4-102 —- 4-4-104>>

4-4-103 गुडाऽदिभ्यष् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

गुडाऽदिभ्यः शब्देभ्यः ठञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। गुडे साधुः गौदिकः इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः। गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इअक्षु। वेणु सङ्ग्राम। सङ्घात। प्रवास। निवास। उपवास। गुडादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1635 गुडादिभ्यष्ठञ्। साक्तुको यव इति। सक्तुषु साधुरित्यर्थः। गुडादित्वाट्ठञ्। उगन्तत्वाट्ठस्य कः।

तत्त्वबोधिनी

1260 गुडादिभ्यष्ठञ्। गुड, कुल्माष, सक्तु, अपूप, माष,[मांस], ओदन, इक्षु, वेणु, सङ्ग्रम, सङ्घात, प्रवास, निवास, वृत्।

Satishji's सूत्र-सूचिः

TBD.