Table of Contents

<<4-4-103 —- 4-4-105>>

4-4-104 पथ्यतिथिवसतिस्वपतेर् ढञ्

प्रथमावृत्तिः

TBD.

काशिका

पथ्यादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1636 पथ्यतिथीत्यादि स्पष्टम्।

तत्त्वबोधिनी

1261 वसतिरिति। `वसेश्च'त्यतिप्रत्ययः। स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम्। सभाया यः। यति तु तित्स्वरः स्यात्, `क्रतुर्भवत्युक्थ्यः'इति वत्। न च `यतोऽनावः'इत्याद्युदात्तता शङ्क्या। `यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः'इति वेदभाष्ये स्थापितत्वात्। पक्षान्तरे तु `नमः शष्प्याय च फेन्याय च'इत्यादिवदाद्युदात्तः स्यात्। एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचि\उfffद्त्कचिव्द्याख्येयमिति तत्त्वम्।

Satishji's सूत्र-सूचिः

TBD.