Table of Contents

<<4-4-100 —- 4-4-102>>

4-4-101 परिषदो ण्यः

प्रथमावृत्तिः

TBD.

काशिका

परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययो ऽप्यत्र इष्यते। तदर्थं योगविभागः क्रियते। परिषदः णो भवति, परिषदि साधुः पारिषदः। ततः ण्यः। परिषदः इत्येव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1633 परिषदो ण्यः। `सप्तम्यन्तात्साधुरित्यर्थ' इति शेषः। योगेति। परिषद इति प्रथमो योगः। परिषदो णः स्यादित्यर्थः। ततो `ण्यः' इति द्वितीयो योगः। परिषदो ण्यः स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.