Table of Contents

<<4-3-95 —- 4-3-97>>

4-3-96 अचित्ताददेशकालाट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सो ऽस्य भक्तिरित्येतस्मिन् विषये। अणो ऽपवादः। वृद्धाच् छं परत्वाद् बाधते। अपूपो भक्तिरस्य आपूपिकः। पायसिकः। शाष्कुलिकः। अचित्तादिति किम्? दैवदत्तः। अदेशादिति किम्? स्रौघ्नः। अकालातिति किम्? ग्रैष्मः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1455 अचित्ताददेश। देशकालव्यतिरिक्ताऽप्राणिवाचिनः ठक्स्यादुक्तविषये। अपूपाः भक्तिरिति। सामान्याभिप्रायं भक्तिरित्येकवचनं, `वेदाः माण'मितिवत्। पायसिक इति। पयो भक्तिरस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.