Table of Contents

<<4-3-92 —- 4-3-94>>

4-3-93 सिन्धुतक्षशिलाऽअदिभ्यो ऽणञौ

प्रथमावृत्तिः

TBD.

काशिका

आदिशब्दः प्रत्येकम् अभिसम्बध्यते। सिन्ध्वादिभ्यः प्रातिपदिकेभ्यः तक्षशिलादिभ्यश्च यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः सो ऽस्य अभिजनः इत्येतस्मिन् विषये। सैन्धवः। वार्णवः। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। किष्किन्धा। गदिका। उरस। दरत्। ये तु कच्छादिषु पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस् तत एव अणि सिद्धे मनुष्यवुञो बाधनार्थं वचनम्। तक्षशिलादिभ्यः खल्वपि ताक्षशिलः। वात्सोद्धरणः। तक्षशिला। वत्सोद्धरण। कौमेदुर। कण्डवारण। ग्रामणी। सरालक। कंस। किन्नर। संकुचित। सिंहकोष्ठ। कर्णकोष्ठ। बर्बर। अवसान।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1452 सिन्धुतक्ष। सैन्धव इति। सिन्धुर्देशविशेषोऽभिजनोऽस्येति विग्रहः।

तत्त्वबोधिनी

1138 सिन्धुतक्ष। सिन्धुः वर्णुः गन्धारःकम्बोजादयः सिन्ध्वादयः। ते तु प्रायेण कच्छादिष्वपि पट\उfffद्न्ते। तेभ्योऽणि तत एव सिद्धे मनुष्यवुञो बाधनार्थं वचनम्। तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः।

Satishji's सूत्र-सूचिः

TBD.