Table of Contents

<<4-3-90 —- 4-3-92>>

4-3-91 आयुधजीविभ्यश् छः पर्वते

प्रथमावृत्तिः

TBD.

काशिका

सो ऽस्य अभिजनः इति वर्तते। आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, पर्वते इति प्रकृतिविशेषणम्। पर्वतवाचिनः प्रथमासमर्थादभिजनादस्य इति षष्ठ्यर्थे छन्ः प्रत्ययो भवति। आयुधजीविभ्यः आयुधजीव्यर्थम् आयुधजीविनो ऽभिधातुं प्रत्ययो भवति इत्यर्थः। हृद्गोलः पर्वतो ऽभिजनः एषाम् आयुधजीविनां हृद्गोलीयाः। अन्धकवर्तीयाः। रोहितगिरीयाः। आयुधजीविभ्यः इति किम्? ऋक्षोदः पर्वतो ऽभिजनः एशां ब्रह्मणानाम् आर्क्षोदा ब्राह्मणाः। पर्वते इति किम्? सांकाश्यका आयुधजीविनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1450 आयुधज्ञीविभ्यः। `पर्वता'दिति पाठान्तरम्। अभिजनशब्दादिति। अबिजनदेशवाचिन इत्यर्थः। `आयुधजीविनोऽभिधातु'मिति शेषः। सूत्रे `क्रियार्थोपपदस्ये'ति चतुर्थी। ह्मद्गोल इति। पर्वतविशेषोऽयम्। ऋक्षोद इति। अयमपि पर्वतविशेषः।

तत्त्वबोधिनी

1137 आयुधजीविभ्यः। तादर्थ्ये एषा चतुर्थी। आयुधजीविभ्यः=आयुधजीब्यर्थम्, आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः। सोऽस्याभिजनः'इत्यनुवर्तते। पर्वत इति प्रकृतिविशेषणं, तदाह—पर्वतवाचिन इत्यादि। पर्वत इति किम्?। साङ्काश्यका आयुधजीविनः। `योपधा'दिति वुञ्। शण्डिकादिभ्यो ञ्यः। शण्डिका सर्वसेन शकेत्यादि।

Satishji's सूत्र-सूचिः

TBD.