Table of Contents

<<4-3-89 —- 4-3-91>>

4-3-90 अभिजनश् च

प्रथमावृत्तिः

TBD.

काशिका

सो ऽस्य इत्येव। स इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थम् अभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्सम्बन्धाद् देशो ऽपि अभिजनः इति उच्यते, यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यो, निवासप्रत्यासत्तेः। स्रुघ्नो ऽभिजनो ऽस्य स्रौघ्नः। माथुरः। राष्टियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सो ऽभिजनः। योगविभाग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1449 अभिजनश्च। स इत्यनुवर्तते। पूर्ववद्व्याख्येयम्। `यत्र पूर्वैरुषितं सोऽभिजन' इति भाष्यम्। यत्र स्वयमिति। उदाह्मतभाष्यस्यायमर्थ इति भावः।

तत्त्वबोधिनी

1136 अभिजनश्च। योगविभाग उत्तरार्थः। `अभिजनाः पूर्वबान्धवाः'इति वृत्तिः। अभिजायते येभ्य इति व्युत्पत्तेरिति भावः। पूर्वाबान्धवाः पित्रादयः। बन्धुशब्दः प्रज्ञादिः। पूर्वसूत्रादिह `निवासः'इत्यनुवृत्तम्। तत्सामानादिकरण्यादभिजनशब्दस्यतत्संबन्धिनि लक्षणा। एवं स्थिते फलितमाह—यत्र पूर्वैरिति।

Satishji's सूत्र-सूचिः

TBD.