Table of Contents

<<4-3-88 —- 4-3-90>>

4-3-89 सो ऽस्य निवासः

प्रथमावृत्तिः

TBD.

काशिका

सः इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासः चेत् स भवति। निवसन्त्यस्मिन् निवासो देश उच्यते। स्रुघ्नो निवासो ऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1110 स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः..

बालमनोरमा

1448 सोऽस्य निवासः। अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः। `यत्र संप्रत्युष्यते स निवास' इति भाष्यम्।

तत्त्वबोधिनी

1135 सोऽस्य निवासः। `स'इति प्रथमान्तादस्येति षष्ठ\उfffद्र्थे यथा विहितः प्रत्ययः स्याद्यः प्रथमान्तर्थः स निवासश्चेत्। रुआउग्घ्नो निवास इति।निवासाधिकरणमित्यर्थः। नन्वस्येति कृद्योगे कर्तरि षष्ठी। तथा च विशेषणविशेष्यभावव्यत्यासात्रुआउघ्नाधिकरणवासकर्तेह वृत्त्यर्थः, तथा च `तत्र भवः'इत्येव सिद्धं किमनेनेति चेत्?। अत्राहुः—-बासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयथ्र्यं। `वसन्ति हि प्रेम्णि गुणा न वस्तुनी'त्यादौ तूपचारो बोध्य इति।

Satishji's सूत्र-सूचिः

TBD.