Table of Contents

<<4-3-87 —- 4-3-89>>

4-3-88 शिशुक्रन्दयमसभद्वन्द्वैन्द्रजननाऽदिभ्यश् छः

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव, अधिकृत्य कृते ग्रन्थे इति च। शिशुक्रन्दाऽदिभ्यो द्वितियासमर्थेभ्यः छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे। अणो ऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः, तम् अधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम्, यमसभीयः। द्वन्द्वात् इन्द्रजननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतो ऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते। द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः। दैवासुरम्। राक्षो ऽसुरम्। गौणमुख्यम्। इन्द्रजनादेराकृतिगणत्वात् शिशुक्रन्दादयो ऽपि तत्र एव द्रष्टव्याः। प्रपञ्चार्थम् एषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधो ऽपि न वक्तव्यः, ततश् छप्रत्ययस्य अदर्शनात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1447 शिशुक्रन्द। शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे। निपातनादिति। `सभा राजे'ति तु नपुंसकत्वं न भवति, तत्र `अमनुष्यशब्दो रूढ\उfffदा रक्षःपिशाचादीनाहे'त्युक्तेरिति भावः।

तत्त्वबोधिनी

1134 शिशुक्रन्द। अत्र वार्तिकं–`द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः'। दैवासुरम्। राक्षोसुरम्। निपातनादिति। `सभा राजे'ति सूत्रे `अमनुष्यशब्दो रुढ\उfffदा रक्षःपिशाचादीनाहे'त्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.