Table of Contents

<<4-3-85 —- 4-3-87>>

4-3-86 अभिनिष्क्रामति द्वारम्

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव। तदिति द्वितीयासमर्थादभिनिष्क्रामति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यतभिनिष्क्रामति द्वारं चेद् तद् भवति। आभिमुख्येन निष्क्रामति अभिनिष्क्रामति। स्रुघ्नम् अभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रियम्। द्वारम् अभिनिष्क्रमणक्रियायां करणं प्रसिद्धं, तदिह स्वातन्त्र्येण विवक्ष्यते, यथा साध्वसिश्छिनत्ति इति। द्वारम् इति किम्? स्रुघ्नम् अभिनिष्क्रामति पुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1108 स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्..

बालमनोरमा

तत्त्वबोधिनी

1132 अभिनिष्क्रमिति। द्वितीयान्तात्प्रत्ययः स्याद्यन्निष्क्रामति तच्चेद्द्वारमित्यर्थः। रुआऔग्घ्नं कन्यकुब्जद्वारमिति। रुआउग्घ्नाभिमुखनिष्क्रममे करणीभूतमिति फलितोऽर्थः। पूर्ववत्करणस्य कर्तृत्वम्।

Satishji's सूत्र-सूचिः

TBD.