Table of Contents

<<4-3-84 —- 4-3-86>>

4-3-85 तद् गच्छति पथिदूतयोः

प्रथमावृत्तिः

TBD.

काशिका

तदिति द्वितीयासमर्थाद् गच्छति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, यो ऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छति इत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोः इति किम्? स्रुघ्नं गच्छति सार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1107 स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा..

बालमनोरमा

1444 तद्गच्छति पथिदूतयोः। गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः।

तत्त्वबोधिनी

1131 तद्गच्छति। द्वितीयान्ताद्गच्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था दूतो वेत्यर्थः। तत्र साध्वसिश्छनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य स्वातन्त्र्यविवक्षायां पन्थाः कर्ता।

Satishji's सूत्र-सूचिः

TBD.