Table of Contents

<<4-3-83 —- 4-3-85>>

4-3-84 विदूराञ् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

विदूरशब्दात् ञ्यः प्रत्ययो भवति ततः प्रभवति इत्येतस्मिन् विषये। अणो ऽपवादः। विदूरात् प्रभवति वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते? एवं तर्हि वालवायो विदूरं च प्रकृत्यनतरम् एव वा। न वै तत्र इति चेद् ब्रूयाज् जित्वरीवदुपाचरेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1443 विदूराञ्ञ्यः। ततः प्रभवतीत्येव। विदूरशब्दो दन्त्यमध्यः। वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1130 वैदूर्य इति। दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः। नन्वत्रार्थाऽसङ्गतिः, बालावायपर्वताद्ध्यसौ प्रभवति, विदूरनगरे तु संस्क्रियते। सत्यम्। अतएव समाहितं बाष्ये—`बालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेद्ब्राऊयाज्जिल्वरीवदुपाचरेत्'इति। अस्यार्थः—–बालवायशब्दः प्रत्ययं लभते, विदूरादेशं च, सूत्रे पठितेनादेशेनानुरूपः स्थानीबालवायशब्द आक्षिप्यते, यथाल शिबादिषु पठिताभ्यां विश्रवणरवणादेशाभ्यामनुरूपः स्थानी वि\उfffदावस्शब्द आक्षिप्यते, यथा वा `पद्दन्न'इत्यादौ पदाद्यादेशानुरूपः स्थानी पाददन्तादिराक्षिप्यते तद्वत्। प्रकृत्यन्तरमेवेति। विदूरशब्दो नगरस्येव पर्तस्यापि वाचकोऽस्तीत्यर्थः। एवं चास्मिन्पक्षे `बालवायात्प्रभवती'ति विग्रहे विदूरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः। न वै इति। `वै' शब्दोऽक्षमां द्योतयति। तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति च्द्ब्राऊयाज्जित्वरीवव्द्यवहरेत्। नियतपुरषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एवाऽदिं?र विदूर इति।

Satishji's सूत्र-सूचिः

TBD.