Table of Contents

<<4-3-82 —- 4-3-84>>

4-3-83 प्रभवति

प्रथमावृत्तिः

TBD.

काशिका

ततः इत्येव। पञ्चमीसमर्थात् ङ्याप्प्रातिपदिकात् प्रभवति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः। हिमवतः प्रभवति गैमवती गङ्गा। दारदी सिन्धुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1106 हिमवतः प्रभवति हैमवती गङ्गा..

बालमनोरमा

1445 अभिनिष्क्रामति द्वारम्। कान्येति। कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः।

तत्त्वबोधिनी

1129 हैमवतीति। हिमवतः प्रकाशते। तत्र प्रथमं दृश्यत इत्यर्थः। उत्पत्तिवचनस्तु प्रभवतिर्न गृह्रते, `तत्र जातः'इत्यतो भेदेन निर्देशात्।

Satishji's सूत्र-सूचिः

TBD.